वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢नम꣣स्य꣡ जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥२३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२३३॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । त्वा꣣ । शूर । नोनुमः । अ꣡दु꣢ग्धाः । अ । दु꣣ग्धाः । इव । धेन꣡वः꣢ । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥२३३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 233 | (कौथोम) 3 » 1 » 5 » 1 | (रानायाणीय) 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में गुणवर्णनपूर्वक परमात्मा की स्तुति की गयी है।

पदार्थान्वयभाषाः -

हे (शूर) विक्रमशाली (इन्द्र) परमैश्वर्यवान् जगदीश्वर ! (अस्य) इस सामने दिखाई देनेवाले (जगतः) जंगम के (ईशानम्) अधीश्वर और (तस्थुषः) स्थावर के (ईशानम्) अधीश्वर, (स्वर्दृशम्) मोक्ष-सुख का दर्शन करानेवाले (त्वा अभि) आपको लक्ष्य करके, हम प्रजाजन (अदुग्धाः धेनवः इव) न दोही गयीं गायों के समान, अर्थात् न दोही गयीं गायें जैसे अपने बछड़े को देखकर उसे दूध पिलाने के लिए रँभाती हैं, वैसे (नोनुमः) अतिशय बारम्बार आपकी स्तुति कर रहे हैं। आप हमारे लिए वैसे ही प्रिय हैं, जैसे गाय को बछड़ा प्यारा होता है, यह यहाँ ध्वनित हो रहा है ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जैसे गौएँ बछड़े को अपना दूध पिलाकर बदले में सुख प्राप्त करती हैं, वैसे ही मनुष्यों को चाहिए कि परमेश्वर से प्रीति जोड़कर सब प्रकार के अभ्युदय एवं निःश्रेयस का सुख प्राप्त करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ गुणवर्णनपूर्वकं परमात्मानं स्तौति।

पदार्थान्वयभाषाः -

हे (शूर) विक्रमशालिन् (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! (अस्य) एतस्य पुरो दृश्यमानस्य (जगतः) जङ्गमस्य। जगत् जङ्गमम्। निरु० ९।१३। (ईशानम्) अधीश्वरम्, (तस्थुषः) स्थावरस्य, ष्ठा गतिनिवृत्तौ, लिटः क्वसुः, तस्थिवान्। षष्ठ्येकवचने तस्थुषः। (ईशानम्) अधीश्वरम्, (स्वर्दृशम्२) मोक्षसुखस्य दर्शयितारम् (त्वा अभि) त्वामभिलक्ष्य, वयं प्रजाः (अदुग्धाः धेनवः३ इव) दोहनमप्राप्ता गाव इव, अदुग्धा धेनवो यथा वत्सं दृष्ट्वा पयः पाययितुं हम्भारवं कुर्वन्ति तथेत्यर्थः, (नोनुमः) अतिशयेन पुनः पुनः स्तुमः। णु स्तुतौ इत्यस्य यङ्लुकि प्रयोगः। अत्र त्वमस्मदीयो वत्सवत् प्रिय इति ध्वन्यते ॥१॥४ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

यथा धेनवो वत्सं स्वकीयं पयः पाययित्वा विनिमयेन सुखं गृह्णन्ति, तथैव मनुष्यैः परमेश्वरेण सह प्रीतिं संयोज्य सर्वविधमाभ्युदयिकं नैःश्रेयसं च सुखं प्राप्तव्यम् ॥१॥

टिप्पणी: १. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० ६८०। २. स्वर्दृशम्। स्वः आदित्यः, तमिव यः पश्यति सः स्वर्दृक्। आदित्यमिव सर्वस्य जगतः द्रष्टारमित्यर्थः—इति वि०। स्वर्दृशं सर्वदृशम्—इति भ०, सा०। सुखेन द्रष्टुं योग्यम् इति ऋ० ७।३२।२२ भाष्ये, स्वः सुखं दृश्यते यस्मात् इति च ऋ० ३।२।१४ भाष्ये द०। ३. अचिरप्रसूता गावः धेनुशब्देनोच्यन्ते। ताः यथा आत्मीयं वत्सं स्नेहार्द्रेण मनसा हुंकारादिभिरभिनन्दति तद्वत् स्तुम इत्यर्थः—इति वि०। यथा अदुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत् सोमपूर्णचमसत्वेन वर्तमाना वयम्—इति सा०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमेश्वरपक्षे यजुर्भाष्ये च राजपक्षे व्याचष्टे।